|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.169. अध्यायः 169
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
सनत्कुमारेण रुद्रंप्रति प्राणिनां मरणसूचकदुर्निमित्तकथनपूर्वकं जिजीविषोस्तत्पहिहारोपायकथनम्॥ 1 ॥ तथाऽनिच्छोर्भगवद्ध्यानेन शरीरत्यागस्य पारत्रिकसुखसाधनत्वोक्तिः॥ 2 ॥ तथा भगवज्ज्ञानप्रशंसनपूर्वकं तदुपदेशपरंपराकथनम्॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`सनत्कुमार उवाच।
अरिष्टानि प्रवक्ष्यामि तत्वेन शृणु तद्भवान्।
मध्य उत्तरतस्तात दक्षिणामुखनिष्ठितम्॥ 13-169-1(88197)
विद्युत्संस्थानपुरुषं यदि पश्येत मानवः।
वर्षत्रयेण जानीयाद्देहन्यासमुपस्थितम्।
एतत्फलमंरिष्टस्य शङ्कराहुर्मनीषिणः। 13-169-2(88198)
शुद्धमण्डमादित्यमरश्मिमथ पश्यतः।
वर्षार्धकेन जानीयाद्देहन्यासमुपस्थितम्॥ 13-169-3(88199)
छिद्रां चन्द्रमसश्छायां पादावप्यनपश्यतः।
संवत्सरेण जानीयाद्देहन्यासमुपस्थितम्॥ 13-169-4(88200)
कनीनिकायामशिरःपुरुषं यदि पश्यति।
जानीयात्षट्सु मासेषु देहन्यासमुपस्थितम्॥ 13-169-5(88201)
कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुयाद्यदि।
विजानीयात्तु मासेन देहन्यासमुपस्थितम्॥ 13-169-6(88202)
आमगन्धमुपाघ्राति सुरभिं प्राप्य भास्वरम्।
देवतायतनस्थोपि सप्तरात्रेण मृत्युभाक्॥ 13-169-7(88203)
सर्वाङ्गधारणावस्थां धारयेत समाहितः।
यथा स मृत्युं जयति नान्यथेह महेश्वर।
यदि जीवितुमिच्छेत चिरकालं महामुने॥ 13-169-8(88204)
अथ नेच्छेच्चिरं कालं त्यजेदात्मानमात्मना।
केवलं चिन्तयानस्तु निष्कलं स निरामयम्॥ 13-169-9(88205)
अथ तं निर्विकारं तु प्रकृते परमं शुचिः।
पुरुषं देहसाधर्म्यं देहन्यासमुपाश्नुयात्॥ 13-169-10(88206)
जाग्रतो हि मयोक्तानि तवारिष्टानि तत्वतः।
धारणाच्चैव सर्वाङ्गे मृत्यु जीयात्सुरर्षभ॥ 13-169-11(88207)
एकत्वदर्शनं भूयो नानात्वं च निबोध मे।
अक्षरं च क्षरं चैव चतुष्टयविधानतः॥ 13-169-12(88208)
अव्यक्तादीनि तत्वानि सर्वाण्येव महाद्युते।
आहुश्चतुर्विंशतितमं विकारपुरुषान्वितम्॥ 13-169-13(88209)
एकत्वदर्शनं चैव नानात्वेन वरं स्मृतम्।
पञ्चविंशतिवर्गः स्यादपवर्गोऽजरामरः॥ 13-169-14(88210)
स निर्विकारः पुरुषस्तत्वेनैवोपदिश्यते।
स एव पञ्चविंशस्तु विकारः पुरुषः स्मृतः॥ 13-169-15(88211)
यद्येष निर्विकारः स्यात्तत्वं न तु भवेद्भव।
विकारो विद्यमानस्तु तत्वसंज्ञकमुच्यते॥ 13-169-16(88212)
यद्योषोऽव्यक्ततां नैति व्यतिरेकान्न संशयः।
तथा भवति निस्तत्वस्तथा सत्वस्तथागुणः॥ 13-169-17(88213)
विकारगुणसंत्यागात्प्रकृत्यन्यत्वता शुचिः।
तदा नानात्वतामेति सर्गहीनोऽपवर्गभाक्॥ 13-169-18(88214)
बोध्यमानः प्रबुध्येत समो भवति बुद्धिमान्।
अक्षरश्च भवत्येष यथावा च्युतवान्क्षणात्॥ 13-169-19(88215)
अव्यक्ताव्यक्तिरुक्ता स्यान्निर्गुणस्य गुणाकरात्।
एतदेकत्वनानात्वमक्षरः क्षर एव च॥ 13-169-20(88216)
व्याख्यातं तव शूलाङ्क तथारिष्टानि चैव हि।
विमोक्षलक्षणं शेषं तदपीह ब्रवीमि ते।
यं ज्ञात्वा यतयः प्राप्ताः केवलत्वमनामयम्॥ 13-169-21(88217)
साङ्ख्याश्चाप्यथ योगाश्च दग्धपङ्का गतज्वराः।
अमूर्तित्वमनुप्राप्ता निर्गुणा निर्भया भव॥ 13-169-22(88218)
विपाप्मानो महादेव मुक्ताः संसारसागरात्।
सरणे प्रजनादाने गुणानां प्रकृतिः सदा।
परा प्रमत्ता सततमेतावत्कार्यकारणम्॥ 13-169-23(88219)
असच्चैव च सच्चैव कुरुते स पुनः पुनः।
चैतन्येन पुराणेन चेतनाचेतनात्परः॥ 13-169-24(88220)
यस्तु चेतयते चेतो मनसा चैकबुद्धिकम्।
स नैव सन्न चैवासन्सदसन्न च संस्मृतः॥ 13-169-25(88221)
व्यतिरिक्तश्च शुद्धश्च सोऽन्यश्चाप्रकृतिस्तथा।
उपेक्षकश्च प्रकृतेर्विकारपुरुषः स्मृतः॥ 13-169-26(88222)
विकारपुरुषेणैषा संयुक्ता सृजते जगत्।
पुनराददते चैव गुणानामन्यथात्मनि॥ 13-169-27(88223)
मत्स्योदकात्ससंज्ञातः प्रकृतेरेव कर्मणः।
तद्वत्क्षेत्रसहस्राणि स एव प्रकरिष्यति॥ 13-169-28(88224)
क्षेत्रप्रलयतज्ज्ञस्तु क्षेत्रज्ञ इति चोच्यते।
सयोगो नित्य इत्याहुर्ये जनास्तत्वदर्शिनः॥ 13-169-29(88225)
एवमेष ह्यसत्सच्च विकारपुरुषः स्मृतः।
विकारापद्यमानं तु विकृतिं प्रवदन्ति नः॥ 13-169-30(88226)
यदा त्वेष विकारस्य प्रकृतानिति मन्यते।
तदा विकारतामेति विकारान्यत्वतां व्रजेत्॥ 13-169-31(88227)
प्रकृत्या च विकारैश्च व्यतिरिक्तो यदा भवेत्।
शुचि यत्परमं शुद्धं प्रतिबुद्धं सनातनम्।
अयुक्तं निष्कलं शुद्धमव्ययं चाजरामरम्॥ 13-169-32(88228)
समेत्य तेन शुद्धेन बुध्यमानः स भास्वरः।
विमोक्षं भजते व्यक्तादप्रबुद्धादचेतनात्॥ 13-169-33(88229)
उदुम्बराद्वा मशकः प्रलयान्निर्गतो यथा।
तथाऽव्यक्तस्य संत्यागान्निर्ममः पञ्च विंशकः॥ 13-169-34(88230)
यथा पुष्करपर्णस्थो जलबिन्दुर्न संश्लिषेत्।
तथैवाव्यक्तविषये न लिप्येत्पञ्चविंशकः॥ 13-169-35(88231)
आकाश इव निःसङ्गस्तथा सङ्गस्त्था वरः।
पञ्चविंशतिमो बुद्धो बुद्धेनि समतां गतः॥ 13-169-36(88232)
एतद्धि प्रकृतं ज्ञानं तत्वतश्च समुत्थितम्।
पूर्वजेभ्यस्तथोत्पन्नं ब्रह्मजेभ्यस्तथानघ॥ 13-169-37(88233)
आदिसर्गो महाबाहो तामसेनावृतं परम्।
प्रतिष्टावयवंदेवमभेद्यमजरामरम्॥ 13-169-38(88234)
सनकः सनन्दनश्चैवि तृतीयश्च सनातनः।
ते विदुः परमं धर्ममव्ययं व्ययधर्षणम्॥ 13-169-39(88235)
अव्यक्तात्परमात्सूक्ष्मादव्रणान्मूर्तिसंज्ञकात्।
क्षेत्रज्ञो भगवानास्ते नरायणपरायणः॥ 13-169-40(88236)
अस्माकं सहजातानामुत्पन्नं ज्ञानमुत्तमम्।
एते हि मूर्तिमन्तो वै लोकान्प्रविचरामहे॥ 13-169-41(88237)
पुनःपुनः प्रजाता वै तत्रतत्र पिनाकधृक्।
द्वन्द्वैर्विरज्यमानस्य ज्ञानमुत्पन्नमुत्तमम्॥ 13-169-42(88238)
कपिलान्मूलआचार्यात्तत्वबुद्धिविनिश्चयम्।
योगसांख्यमवाप्तं मे कार्त्स्न्येन मुनिसत्तमात्॥ 13-169-43(88239)
तेन संबोधिताः शिष्या बहवस्तत्वदर्शिनः।
तद्बुद्ध्वा बहवः शिष्या मयाप्येतन्निदर्शिताः॥ 13-169-44(88240)
जन्ममृत्युहरं तथ्यं ज्ञानं ज्ञेयं सनातनम्।
यज्ज्ञात्वा नानुशोचन्ति तत्वज्ञाना निरिन्द्रियाः॥ 13-169-45(88241)
शुद्धबीजमलाश्चैव विपङ्का वै निरक्षराः।
स्वतन्त्रास्ते स्वतन्त्रेण सम्मिता निष्कलाः स्मृताः॥ 13-169-46(88242)
शाश्वताश्चाव्ययाश्चैव तमोग्राह्याश्च भास्वर।
विपाप्मानस्तथा सर्वे सत्वस्थाश्चापि निर्व्रणाः॥ 13-169-47(88243)
विमुक्ताः केवलाश्चैव वीतमोहभयास्तथा।
अमूर्तास्ते महाभाग सर्वे च विगतज्वराः॥ 13-169-48(88244)
हिरण्यनाभस्त्रिशिरास्तथा प्रह्लादभास्करौ।
वसुर्विश्वावसुश्चैव सार्धं पञ्चशिखस्तथा॥ 13-169-49(88245)
गार्ग्योऽथासुरिरावन्त्यो गौतमो वृत एव च।
कात्यायनोऽथ नमुचिर्हरिश्च दमनश्चि ह॥ 13-169-50(88246)
एते चान्ये च बहवस्तत्वमेवोपदर्शिताः।
केचिन्मुक्ताः स्थिताः केचिच्छन्दतश्चापरे मृताः॥ 13-169-51(88247)
दर्शितास्त्रिविधं बन्धं विमोक्षं त्रिविधं तथा।
अज्ञानं चैव रागश्च संयोगं प्राकृतं तथा॥ 13-169-52(88248)
एतेभ्यो बन्धनं प्रोक्तं विमोक्षमपि मे शृणु।
परितस्तावता सम्यक्सम्बन्धो यावता कृतः॥ 13-169-53(88249)
कृत्स्नक्षयपरित्यागाद्विमोक्ष इति नः श्रुतिः।
निवृत्तः सर्वसङ्गेभ्यः केवलः पुरुषोऽमलः॥ 13-169-54(88250)
भीष्म उवाच। 13-169-55x(7372)
13-169-55(88251)
इत्येवमुक्त्वा भगवानीश्वराय महात्मने।
सनत्कुमारः प्रययावाकाशं समुपाश्रितः॥'


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|